जिनेन्द्र वाणी

भक्तामर स्तोत्र

आचार्य मानतुंग · पाठ एवं स्तोत्र

साइट में स्तोत्र खोलें

भक्तामर - प्रणत - मौलि - मणि -प्रभाणा-मुद्योतकं दलित - पाप - तमो - वितानम् ।सम्यक् -प्रणम्य जिन - पाद - युगं युगादा-वालम्बनं भव - जले पततां जनानाम् ॥1॥

यः संस्तुतः सकल - वाङ् मय - तत्त्व-बोधा-दुद्भूत-बुद्धि - पटुभिः सुर - लोक - नाथैः ।स्तोत्रैर्जगत्- त्रितय - चित्त - हरैरुदारैः,स्तोष्ये किलाहमपि तं प्रथमं जिनेन्द्रम् ॥2॥

बुद्ध्या विनापि विबुधार्चित - पाद - पीठ!स्तोतुं समुद्यत - मतिर्विगत - त्रपोऽहम् ।बालं विहाय जल-संस्थित-मिन्दु-बिम्ब-मन्यः क इच्छति जनः सहसा ग्रहीतुम् ॥3॥

वक्तुं गुणान्गुण -समुद्र ! शशाङ्क-कान्तान्,कस्ते क्षमः सुर - गुरु-प्रतिमोऽपि बुद्ध्या ।कल्पान्त -काल - पवनोद्धत- नक्र- चक्रं ,को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ॥4॥

सोऽहं तथापि तव भक्ति - वशान्मुनीश!कर्तुं स्तवं विगत - शक्ति - रपि प्रवृत्तः ।प्रीत्यात्म - वीर्य - मविचार्य मृगी मृगेन्द्रम्नाभ्येति किं निज-शिशोः परिपालनार्थम् ॥5॥

अल्प- श्रुतं श्रुतवतां परिहास-धाम,त्वद्-भक्तिरेव मुखरी-कुरुते बलान्माम् ।यत्कोकिलः किल मधौ मधुरं विरौति,तच्चाम्र -चारु -कलिका-निकरैक -हेतुः ॥6॥

त्वत्संस्तवेन भव - सन्तति-सन्निबद्धं,पापं क्षणात्क्षयमुपैति शरीरभाजाम् ।आक्रान्त - लोक - मलि -नील-मशेष-माशु,सूर्यांशु- भिन्न-मिव शार्वर-मन्धकारम् ॥7॥

मत्वेति नाथ! तव संस्तवनं मयेद, -मारभ्यते तनु- धियापि तव प्रभावात् ।चेतो हरिष्यति सतां नलिनी-दलेषु,मुक्ता-फल - द्युति-मुपैति ननूद-बिन्दुः ॥8॥

आस्तां तव स्तवन- मस्त-समस्त-दोषं,त्वत्सङ्कथाऽपि जगतां दुरितानि हन्ति ।दूरे सहस्रकिरणः कुरुते प्रभैव,पद्माकरेषु जलजानि विकासभाञ्जि ॥9॥

नात्यद्-भुतं भुवन - भूषण ! भूूत-नाथ!भूतैर्गुणैर्भुवि भवन्त - मभिष्टुवन्तः ।तुल्या भवन्ति भवतो ननु तेन किं वाभूत्याश्रितं य इह नात्मसमं करोति ॥10॥

दृष्ट्वा भवन्त मनिमेष - विलोकनीयं,नान्यत्र - तोष- मुपयाति जनस्य चक्षुः ।पीत्वा पयः शशिकर - द्युति - दुग्ध-सिन्धोः,क्षारं जलं जलनिधेरसितुं क इच्छेत्? ॥11॥

यैः शान्त-राग-रुचिभिः परमाणुभिस्-त्वं,निर्मापितस्- त्रि-भुवनैक - ललाम-भूत !तावन्त एव खलु तेऽप्यणवः पृथिव्यां,यत्ते समान- मपरं न हि रूप-मस्ति ॥12॥

वक्त्रं क्व ते सुर-नरोरग-नेत्र-हारि,निःशेष- निर्जित - जगत्त्रितयोपमानम् ।बिम्बं कलङ्क - मलिनं क्व निशाकरस्य,यद्वासरे भवति पाण्डुपलाश-कल्पम् ॥13॥

सम्पूर्ण- मण्डल-शशाङ्क - कला-कलाप-शुभ्रा गुणास् - त्रि-भुवनं तव लङ्घयन्ति ।ये संश्रितास् - त्रि-जगदीश्वरनाथ-मेकं,कस्तान् निवारयति सञ्चरतो यथेष्टम् ॥14॥

चित्रं - किमत्र यदि ते त्रिदशाङ्ग-नाभिर्-नीतं मनागपि मनो न विकार - मार्गम् ।कल्पान्त - काल - मरुता चलिताचलेन,किं मन्दराद्रिशिखरं चलितं कदाचित् ॥15॥

निर्धूम - वर्ति - रपवर्जित - तैल-पूरः,कृत्स्नं जगत्त्रय - मिदं प्रकटीकरोषि ।गम्यो न जातु मरुतां चलिताचलानां,दीपोऽपरस्त्वमसि नाथ ! जगत्प्रकाशः ॥16॥

नास्तं कदाचिदुपयासि न राहुगम्यः,स्पष्टीकरोषि सहसा युगपज्- जगन्ति ।नाम्भोधरोदर - निरुद्ध - महा- प्रभावः,सूर्यातिशायि-महिमासि मुनीन्द्र! लोके ॥17॥

नित्योदयं दलित - मोह - महान्धकारं,गम्यं न राहु - वदनस्य न वारिदानाम् ।विभ्राजते तव मुखाब्ज - मनल्पकान्ति,विद्योतयज्-जगदपूर्व-शशाङ्क-बिम्बम् ॥18॥

किं शर्वरीषु शशिनाह्नि विवस्वता वा,युष्मन्मुखेन्दु- दलितेषु तमःसु नाथ!निष्पन्न-शालि-वन-शालिनी जीव-लोके,कार्यं कियज्जल-धरै-र्जल-भार-नमै्रः ॥19॥

ज्ञानं यथा त्वयि विभाति कृतावकाशं,नैवं तथा हरि -हरादिषु नायकेषु ।तेजः स्फ़ुरन्मणिषु याति यथा महत्त्वं,नैवं तु काच -शकले किरणाकुलेऽपि ॥20॥

मन्ये वरं हरि- हरादय एव दृष्टा,दृष्टेषु येषु हृदयं त्वयि तोषमेति ।किं वीक्षितेन भवता भुवि येन नान्यः,कश्चिन्मनो हरति नाथ ! भवान्तरेऽपि ॥21॥

स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्,नान्या सुतं त्वदुपमं जननी प्रसूता ।सर्वा दिशो दधति भानि सहस्र-रश्मिं,प्राच्येव दिग्जनयति स्फुरदंशु-जालम् ॥22॥

त्वामामनन्ति मुनयः परमं पुमांस-मादित्य-वर्ण-ममलं तमसः पुरस्तात् ।त्वामेव सम्य - गुपलभ्य जयन्ति मृत्युं,नान्यः शिवः शिवपदस्य मुनीन्द्र! पन्थाः ॥23॥

त्वा-मव्ययं विभु-मचिन्त्य-मसंख्य-माद्यं,ब्रह्माणमीश्वर - मनन्त - मनङ्ग - केतुम् ।योगीश्वरं विदित - योग-मनेक-मेकं,ज्ञान-स्वरूप-ममलं प्रवदन्ति सन्तः ॥24॥

बुद्धस्त्वमेव विबुधार्चित-बुद्धि-बोधात्,त्वं शङ्करोऽसि भुवन-त्रय- शङ्करत्वात् ।धातासि धीर! शिव-मार्ग विधेर्विधानाद्,व्यक्तं त्वमेव भगवन् पुरुषोत्तमोऽसि ॥25॥

तुभ्यं नमस् - त्रिभुवनार्ति - हराय नाथ!तुभ्यं नमः क्षिति-तलामल -भूषणाय ।तुभ्यं नमस् - त्रिजगत्ः परमेश्वराय,तुभ्यं नमो जिन! भवोदधि-शोषणाय ॥26॥

को विस्मयोऽत्र यदि नाम गुणै-रशेषैस्-त्वं संश्रितो निरवकाशतया मुनीश !दोषै - रुपात्त - विविधाश्रय-जात-गर्वैः,स्वप्नान्तरेऽपि न कदाचिदपीक्षितोऽसि ॥27॥

उच्चै - रशोक- तरु - संश्रितमुन्मयूख -माभाति रूपममलं भवतो नितान्तम् ।स्पष्टोल्लसत्-किरण-मस्त-तमो-वितानं,बिम्बं रवेरिव पयोधर-पाश्र्ववर्ति ॥28॥

सिंहासने मणि-मयूख-शिखा-विचित्रे,विभ्राजते तव वपुः कनकावदातम् ।बिम्बं वियद्-विलस - दंशुलता-वितानंतुङ्गोदयाद्रि-शिरसीव सहस्र-रश्मेः ॥29॥

कुन्दावदात - चल - चामर-चारु-शोभं,

विभ्राजते तव वपुः कलधौत -कान्तम् ।उद्यच्छशाङ्क- शुचिनिर्झर - वारि -धार-मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥30॥

छत्र-त्रयं तव विभाति शशाङ्क- कान्त-मुच्चैः स्थितं स्थगित-भानु-कर-प्रतापम् ।मुक्ता - फल - प्रकर - जाल-विवृद्ध-शोभं,प्रख्यापयत्-त्रिजगत्ः परमेश्वरत्वम् ॥31॥

गम्भीर - तार - रव-पूरित-दिग्विभागस्-त्रैलोक्य - लोक -शुभ - सङ्गम -भूति-दक्षः ।सद्धर्म -राज - जय - घोषण - घोषकः सन्,खे दुन्दुभि-र्ध्वनति ते यशसः प्रवादी ॥32॥

मन्दार - सुन्दर - नमेरु - सुपारिजात-सन्तानकादि - कुसुमोत्कर - वृष्टि-रुद्धा ।गन्धोद - बिन्दु- शुभ - मन्द - मरुत्प्रपाता,दिव्या दिवः पतति ते वचसां ततिर्वा ॥33॥

शुम्भत्-प्रभा- वलय-भूरि-विभा-विभोस्ते,लोक - त्रये - द्युतिमतां द्युति-माक्षिपन्ती ।प्रोद्यद्- दिवाकर-निरन्तर - भूरि -संख्या,दीप्त्या जयत्यपि निशामपि सोमसौम्याम् ॥34॥

स्वर्गापवर्ग - गम - मार्ग - विमार्गणेष्टः,सद्धर्म- तत्त्व - कथनैक - पटुस्-त्रिलोक्याः ।दिव्य-ध्वनि-र्भवति ते विशदार्थ-सर्व-भाषास्वभाव-परिणाम-गुणैः प्रयोज्यः ॥35॥

उन्निद्र - हेम - नव - पङ्कज - पुञ्ज-कान्ती,पर्युल्-लसन्-नख-मयूख-शिखाभिरामौ ।पादौ पदानि तव यत्र जिनेन्द्र ! धत्तः,पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥36॥

इत्थं यथा तव विभूति- रभूज् - जिनेन्द्र !धर्मोपदेशन - विधौ न तथा परस्य ।यादृक् - प्रभा दिनकृतः प्रहतान्धकारा,तादृक्-कुतो ग्रहगणस्य विकासिनोऽपि ॥37॥

श्च्यो-तन्-मदाविल-विलोल-कपोल-मूल,मत्त- भ्रमद्- भ्रमर - नाद - विवृद्ध-कोपम् ।ऐरावताभमिभ - मुद्धत - मापतन्तंदृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥38॥

भिन्नेभ - कुम्भ- गल - दुज्ज्वल-शोणिताक्त,मुक्ता - फल- प्रकरभूषित - भूमि - भागः ।बद्ध - क्रमः क्रम-गतं हरिणाधिपोऽपि,नाक्रामति क्रम-युगाचल-संश्रितं ते ॥39॥

कल्पान्त - काल - पवनोद्धत - वह्नि -कल्पं,दावानलं ज्वलित-मुज्ज्वल - मुत्स्फुलिङ्गम् ।विश्वं जिघत्सुमिव सम्मुख - मापतन्तं,त्वन्नाम-कीर्तन-जलं शमयत्यशेषम् ॥40॥

रक्तेक्षणं समद - कोकिल - कण्ठ-नीलम्,क्रोधोद्धतं फणिन - मुत्फण - मापतन्तम् ।आक्रामति क्रम - युगेण निरस्त - शङ्कस्-त्वन्नाम- नागदमनी हृदि यस्य पुंसः ॥41॥

वल्गत् - तुरङ्ग - गज - गर्जित - भीमनाद-माजौ बलं बलवता - मपि - भूपतीनाम् ।उद्यद् - दिवाकर - मयूख - शिखापविद्धंत्वत्कीर्तनात्तम इवाशु भिदामुपैति ॥42॥

कुन्ताग्र-भिन्न - गज - शोणित - वारिवाह,वेगावतार - तरणातुर - योध - भीमे ।युद्धे जयं विजित - दुर्जय - जेय - पक्षास्-त्वत्पाद-पङ्कज-वनाश्रयिणो लभन्ते ॥43॥

अम्भोनिधौ क्षुभित - भीषण - नक्र - चक्र-पाठीन - पीठ-भय-दोल्वण - वाडवाग्नौ ।रङ्गत्तरङ्ग -शिखर- स्थित- यान - पात्रास्-त्रासं विहाय भवतः स्मरणाद्-व्रजन्ति ॥44॥

उद्भूत - भीषण - जलोदर - भार- भुग्नाः,शोच्यां दशा-मुपगताश्-च्युत-जीविताशाः ।त्वत्पाद-पङ्कज-रजो - मृत - दिग्ध - देहा,मर्त्या भवन्ति मकर-ध्वज-तुल्यरूपाः ॥45॥

आपाद - कण्ठमुरु - शृङ्खल - वेष्टिताङ्गा,गाढं-बृहन्-निगड-कोटि निघृष्ट - जङ्घाः ।त्वन्-नाम-मन्त्र- मनिशं मनुजाः स्मरन्तः,सद्यः स्वयं विगत-बन्ध-भया भवन्ति ॥46॥

मत्त-द्विपेन्द्र- मृग- राज - दवानलाहि-संग्राम-वारिधि-महोदर - बन्ध -नोत्थम् ।तस्याशु नाश - मुपयाति भयं भियेव,यस्तावकं स्तव-मिमं मतिमानधीते ॥47॥

स्तोत्र - स्रजं तव जिनेन्द्र गुणैर्निबद्धाम्,भक्त्या मया रुचिर-वर्ण-विचित्र-पुष्पाम् ।धत्ते जनो य इह कण्ठ-गता-मजस्रं,तं मानतुङ्ग-मवशा-समुपैति लक्ष्मीः ॥48॥

॥ जय जिनेन्द्र ॥