महावीराष्टक स्तोत्र
पं. भागचंद · पाठ एवं स्तोत्र
साइट में स्तोत्र खोलेंयदीये चैतन्ये मुकुर इव भावाश्चिदचिताःसमं भान्ति ध्रौव्य व्यय-जनि-लसन्तोऽन्तरहिताः ।जगत्साक्षी मार्ग-प्रकटन परो भानुरिव योमहावीर-स्वामी नयन-पथ-गामी भवतु मे ॥(1)अताम्रं यच्चक्षुः कमल-युगलं स्पन्द-रहितंजनान्कोपापायं प्रकटयति वाभ्यन्तरमपि ।स्फुटं मूर्तिर्यस्य प्रशमितमयी वातिविमलामहावीर-स्वामी नयन-पथ-गामी भवतु मे ॥(2)नमन्नाकेंद्राली-मुकुट-मणि-भा जाल जटिलंलसत्पादाम्भोज-द्वयमिह यदीयं तनुभृताम् ।भवज्ज्वाला-शान्त्यै प्रभवति जलं वा स्मृतमपिमहावीर स्वामी नयन-पथ-गामी भवतु मे ॥(3)यदर्चा-भावेन प्रमुदित-मना दर्दुर इहक्षणादासीत्स्वर्गी गुण-गण-समृद्धः सुख-निधिः ।लभन्ते सद्भक्ताः शिव-सुख-समाजं किमुतदामहावीर-स्वामी नयन-पथ-गामी भवतु मे ॥(4)कनत्स्वर्णाभासोऽप्यपगत-तनुर्ज्ञान-निवहोविचित्रात्माप्येको नृपति-वर-सिद्धार्थ-तनयः ।अजन्मापि श्रीमान् विगत-भव-रागोद्भुत-गतिःमहावीर-स्वामी नयन-पथ-गामी भवतु मे ॥(5)यदीया वाग्गंगा विविध-नय-कल्लोल-विमलाबृहज्ज्ञानांभोभिर्जगति जनतां या स्नपयति ।इदानीमप्येषा बुध-जन-मरालैः परिचितामहावीर-स्वामी नयन-पथ-गामी भवतु मे ॥(6)अनिर्वारोद्रेकस्त्रिभुवन-जयी काम-सुभटःकुमारावस्थायामपि निज-बलाद्येन विजितःस्फुरन्नित्यानन्द-प्रशम-पद-राज्याय स जिनःमहावीर-स्वामी नयन-पथ-गामी भवतु मे ॥(7)महामोहातंक-प्रशमन-परा-कस्मिन्भिषग्निरापेक्षो बंधु र्विदित-महिमा मंगलकरः ।शरण्यः साधूनां भव-भयभृतामुत्तमगुणोमहावीर-स्वामी नयन-पथ-गामी भवतु मे ॥(8)महावीराष्टकं स्तोत्रं भक्त्या 'भागेन्दु' ना कृतम् ।यः पठे च्छ्रणुयाच्चापि स याति परमां गतिम् ॥(9)
॥ जय जिनेन्द्र ॥