पूजा पीठिका
नित्य पूजा क्रम
साइट में पूजा खोलेंॐ जय! जय! जय!
नमोस्तु! नमोस्तु! नमोस्तु!णमो अरिहंताणं, णमो सिद्धाणं, णमो आइरियाणं,णमो उवज्झायाणं, णमो लोए सव्वसाहूणं ॥
ॐ ह्रीं अनादिमूलमंत्रेभ्यो नमः ।( पुष्पांजलि क्षेपण करें)
चत्तारि मंगलं अरिहंता मंगलं, सिद्धा मंगलं,साहू मंगलं, केवलपण्णत्तो धम्मो मंगलं ।चत्तारि लोगुत्तमा, अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा,साहू लोगुत्तमा, केवलिपण्णत्तो धम्मो लोगुत्तमो ।चत्तारि सरणं पव्वज्जामि, अरिहंते सरणं पव्वज्जामि,सिद्धे सरणं पव्वज्जामि, साहू सरणं पव्वज्जामि,केवलिपण्णत्तं धम्मं सरणं पव्वज्जामि ॥
ॐ नमोऽर्हते स्वाहा । (पुष्पांजलि क्षेपण करें)
----मंगल विधान----अपवित्रः पवित्रो वा सुस्थितो दुःस्थितोऽपि वा ।ध्यायेत्पंच-नमस्कारं सर्वपापैः प्रमुच्यते ॥(1)अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।यः स्मरेत्परमात्मानं स बाह्याभ्यंतरे शुचिः ॥(2)अपराजित-मंत्रोऽयं, सर्व-विघ्न-विनाशनः ।मंगलेषु च सर्वेषु, प्रथमं मंगलमं मतः ॥(3)एसो पंच-णमोयारो, सव्व-पावप्पणासणो ।मंगलाणं च सव्वेसिं, पढमं हवइ मंगलम् ॥(4)अर्हमित्यक्षरं ब्रह्म, वाचकं परमेष्ठिनः ।सिद्धचक्रस्य सद्बीजं सर्वतः प्रणमाम्यहम् ॥(5)कर्माष्टक-विनिर्मुक्तं मोक्ष-लक्ष्मी-निकेतनम् ।सम्यक्त्वादि-गुणोपेतं सिद्धचक्रं नमाम्यहम् ॥(6)विघ्नौघाः प्रलयं यान्ति, शाकिनी भूत पन्नगाः ।विषं निर्विषतां याति स्तूयमाने जिनेश्वरे ॥(7)पुष्पांजलि क्षेपण करें ।----श्री जिनसहस्रनाम अर्घ्य----उदक-चंदन-तंदुल-पुष्पकैश्चरु-सुदीप-सुधूप-फलार्घ्यकैः ।धवल-मंगल-गान-रवाकुले जिनगृहे जिननाममहं यजे ॥
अर्घ्यॐ ह्रीं श्रीभगवज्जिन अष्टाधिक सहस्रनामेभ्योऽर्घ्यं निर्वपामीति स्वाहा ।
श्रीमज्जिनेन्द्रमभिवंद्य जगत्त्रयेशम्,स्याद्वाद-नायक-मनंत-चतुष्टयार्हम् ।श्रीमूलसंघ-सुदृशां सुकृतैकहेतुर्,जैनेन्द्र-यज्ञ-विधिरेष मयाऽभ्यधायि ॥(1)स्वस्ति त्रिलोक-गुरवे जिन-पुंगवाय,स्वस्ति स्वभाव-महिमोदय-सुस्थिताय ।स्वस्ति प्रकाश-सहजोर्ज्जित दृग्मयाय ।स्वस्ति प्रसन्न-ललिताद्भुत-वैभवाय ॥(2)स्वस्त्युच्छलद्विमल-बोध-सुधा-प्लवाय,स्वस्ति स्वभाव-परभाव-विभासकाय ।स्वस्ति त्रिलोक-विततैक-चिदुद्गमाय,स्वस्ति त्रिकाल-सकलायत-विस्तृताय ॥(3)द्रव्यस्य शुद्धिमधिगम्य यथानुरूपम्,भावस्य शुद्धिमधिकमधिगंतुकामः ।आलंबनानि विविधान्यवलम्ब्य वल्गन्,भूतार्थ यज्ञ-पुरुषस्य करोमि यज्ञम् ॥(4)अर्हत्पुराण पुरुषोत्तम – पावनानि,वस्तून्यनूनमखिलान्ययमेक एव ।अस्मिन् ज्वलद्विमल-केवल-बोधवह्रौ,पुण्यं समग्रमहमेकमना जुहोमि ॥(5)
इति विधियज्ञ प्रतिज्ञायै जिनप्रतिमाग्रे पुष्पांजलिं क्षिपामि ।
----स्वस्ति मंगल विधान----श्री वृषभो नः स्वस्ति, स्वस्ति श्री अजितः ।श्री संभवः स्वस्ति, स्वस्ति श्री अभिनंदनः ।श्री सुमतिः स्वस्ति, स्वस्ति श्री पद्मप्रभः ।श्री सुपार्श्वः स्वस्ति, स्वस्ति श्री चन्द्रप्रभः ।श्री पुष्पदंतः स्वस्ति, स्वस्ति श्री शीतलः ।श्री श्रेयांसः स्वस्ति, स्वस्ति श्री वासुपूज्यः ।श्री विमलः स्वस्ति, स्वस्ति श्री अनंतः ।श्री धर्मः स्वस्ति, स्वस्ति श्री शांतिः ।श्री कुंथुः स्वस्ति, स्वस्ति श्री अरहनाथः ।श्री मल्लिः स्वस्ति, स्वस्ति श्री मुनिसुव्रतः ।श्री नमिः स्वस्ति, स्वस्ति श्री नेमिनाथः ।श्री पार्श्वः स्वस्ति, स्वस्ति श्री वर्द्धमानः ।
॥इति श्रीचतुर्विंशति तीर्थंकर स्वस्ति मंगलविधानं पुष्पांजलिं क्षिपामि ॥
----परमर्षि स्वस्ति मंगल विधान----नित्याप्रकंपाद्भुत-केवलौघाः स्फुरन्मनःपर्यय-शुद्धबोधाः ।दिव्यावधिज्ञान-बलप्रबोधाः स्वस्ति-क्रियासुः परमर्षयो नः ॥(1)कोष्ठस्थ-धान्योपममेकबीजं संभिन्न-संश्रोतृ-पदानुसारि ।चतुर्विधं बुद्धिबलं दधानाः स्वस्ति-क्रियासुः परमर्षयो नः ॥(2)संस्पर्शनं संश्रवणं च दूरादास्वादन-घ्राण-विलोकनानि ।दिव्यान् मतिज्ञान-बलाद्वहंतः स्वस्तिक्रियासुः परमर्षयो नः ॥(3)प्रज्ञा-प्रधानाः श्रमणाः समृद्धाः प्रत्येकबुद्धाः दशसर्वपूर्वैः ।प्रवादिनोऽष्टांग-निमित्त-विज्ञाः स्वस्ति-क्रियासुः परमर्षयो नः ॥(4)जंघाऽनल-श्रेणि-फलांबु-तंतु-प्रसून-बीजांकुर-चारणाह्वाः ।नभोऽगंण-स्वैरविहारिणश्च स्वस्ति-क्रियासुः परमर्षयो नः ॥(5)अणिम्नि दक्षाः कुशलाः महिम्नि, लघिम्नि शक्ताः कृतिनो गरिम्णि ।मनो-वपुर्वाग्बलिनश्च नित्यं स्वस्ति-क्रियासुः परमर्षयो नः ॥(6)सकामरूपित्व-वशित्वमैश्यं प्राकाम्यमन्तर्द्धिमथाप्तिमाप्ताः ।तथाऽप्रतीघातगुणप्रधानाः स्वस्ति-क्रियासुः परमर्षयो नः ॥(7)दीप्तं च तप्तं च महोग्रं घोरं तपो घोरपराक्रमस्थाः ।ब्रह्मापरं घोरगुणंचरन्तः स्वस्ति-क्रियासुः परमर्षयो नः ॥(8)आमर्ष-सर्वोषधयस्तथाशीर्विषाविषा – दृष्टिविषाविषाश्चसखिल्ल-विड्जल्ल-मलौषधीशाः स्वस्ति-क्रियासुः परमर्षयो नः ॥(9)क्षीरं स्रवंतोऽत्र घृतं स्रवंतः मधु स्रवंतोऽप्यमृतं स्रवंतः ।अक्षीणसंवास-महानसाश्च स्वस्ति-क्रियासुः परमर्षयो नः ॥(10)
पुष्प॥इति परमर्षि स्वस्ति मंगल विधानं पुष्पांजलिंक्षिपामि ॥
॥ जय जिनेन्द्र ॥