जिनेन्द्र वाणी

दर्शन पाठ (संस्कृत)

पाठ एवं स्तोत्र

साइट में पाठ खोलें

दर्शनं देवदेवस्य, दर्शनं पापनाशनम् ।दर्शनं स्वर्गसोपानं, दर्शनं मोक्षसाधनम् ॥(1)दर्शनेन जिनेन्द्राणां, साधूनां वन्दनेन च ।न चिरं तिष्ठते पापं, छिद्रहस्ते यथोदकम् ॥(2)वीतराग - मुखं दृष्ट्वा, पद्मरागसमप्रभम् ।जन्मजन्मकृतं पापं, दर्शनेन विनश्यति ॥(3)दर्शनं जिनसूर्यस्य, संसार-ध्वान्तनाशनम् ।बोधनं चित्तपद्मस्य, समस्तार्थ-प्रकाशनम् ॥(4)दर्शनं जिनचन्द्रस्य, सद्धर्मामृत-वर्षणम् ।जन्म-दाहविनाशाय, वर्धनं सुखवारिधेः ॥(5)जीवादितत्त्व प्रतिपादकाय, सम्यक्त्व मुख्याष्टगुणाश्रयाय ।प्रशान्तरूपाय दिगम्बराय, देवाधिदेवाय नमो जिनाय ॥(6)चिदानन्दैक - रूपाय, जिनाय परमात्मने ।परमात्मप्रकाशाय, नित्यं सिद्धात्मने नमः ॥(7)अन्यथा शरणं नास्ति, त्वमेव शरणं मम ।तस्मात्कारुण्यभावेन, रक्ष रक्ष जिनेश्वरः ॥(8)न हि त्राता न हि त्राता, न हि त्राता जगत्त्रये ।वीतरागात्परो देवो, न भूतो न भविष्यति ॥(9)जिने भक्तिर्जिने भक्तिर्जिने भक्ति-र्दिनेदिने ।सदा मेऽस्तु सदा मेऽस्तु,सदा मेऽस्तु भवे भवे ॥(10)जिनधर्मविनिर्मुक्तो, मा भवेच्चक्रवर्त्यपि ।स्याच्चेटोऽपि दरिद्रोऽपि, जिनधर्मानुवासितः ॥(11)जन्मजन्मकृतं पापं, जन्मकोटिमुपार्जितम् ।जन्ममृत्युजरा-रोगं, हन्यते जिनदर्शनात् ॥(12)अद्याभवत् सफलता नयन-द्वयस्य,देव ! त्वदीय चरणाम्बुज वीक्षणेन ।अद्य त्रिलोक-तिलक ! प्रतिभासते मे,संसार-वारिधिरयं चुलुक-प्रमाणम् ॥(13)

॥ जय जिनेन्द्र ॥