शान्ति पाठ (संस्कृत)
पाठ एवं स्तोत्र
साइट में पाठ खोलेंशान्ति जिनं शशि निर्मलवक्त्रं, शील-गुण-व्रत-संयम-पात्रम् ।अष्टशतार्चित-लक्षण-गात्रं, नौभि जिनोत्तममम्बुज नेत्रम् ॥
पंचमभीप्सित-चक्रधराणां पूजितमिन्द्र-नरेन्द्र-गणैश्च ।शान्तिकरं गण-शान्तिमभीप्सुः षोडश-तीर्थंकरं प्रणमामि ॥
दिव्य-तरुः सुर-पुष्प-सुवृष्टिर्दुन्दुभिरासन-योजन-घोषौ ।
आतपवारण-चामर
युग्मे यस्य विभाति च मण्डलतेजः ॥
तं जगदर्चित-शान्ति-जिनेन्द्रम् शान्तिकरं शिरसा प्रणमामि ।सर्वगणाय तु यच्छतु शान्तिं मह्यमरं पठते परमां च ॥
वसन्ततिलका
येऽभ्यर्चिता मुकुट-कुण्डल-हार-रत्नैःशक्रादिभिः सुरगणैः स्तुत-पाद-पद्माः ।ते मे जिनाः प्रवर-वंश-जगत्प्रदीपा-स्तीर्थंकराः सतत-शान्तिकरा भवन्तु ॥
इन्द्रवज्रा
संपूजकानां प्रतिपालकानां, यतीन्द्र-सामान्य-तपोधनानाम् ।देशस्य राष्ट्रस्य पुरस्य राज्ञः, करोतु शान्तिं भगवांजिनेन्द्रः ॥
शार्दुलविक्रीड़ित
क्षेमं सर्वप्रजानां प्रभवतु बलवान्धार्मिको भूमिपालः,काले काले च सम्यग्विकिरतु मघवा, व्याधयो यान्तु नाशम् ।दुर्भिक्षं चौर-मारी क्षणमपि जगतां, मा स्म भूज्जीवलोके,जैनेन्द्रं धर्मचक्रं प्रभवतु सततं सर्व-सौख्य-प्रदायि ॥
अनुष्टुप
प्रध्वस्त-घाति-कर्माणः, केवलज्ञान-भास्कराः ।कुर्वन्तु जगतां शान्तिं वृषभाद्या जिनेश्वराः ॥
॥ जय जिनेन्द्र ॥