जिनेन्द्र वाणी

सिद्ध पूजा (भावाष्टकम्)

आचार्य पद्मनन्दि · सिद्ध पूजा

साइट में पूजा खोलें

अष्टक

निज-मनो-मणि-भाजनभारया शम-रसैक-सुधारसधारया ।सकल-बोध-कला-रमणीयकं सहज – सिद्धमहं परिपूजये ॥

जलॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं निर्व॰

सहज-कर्म-कलङ्क-विनाशनै-रमल भाव- सुवासित-चन्दनैः ।अनुपमान-गुणावलि-नायकं सहज-सिद्धमहं परिपूजये ॥

चंदनॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने भवातापविनाशनाय चन्दनं निर्व॰

सहज-भाव- सुनिर्मलतण्डुलैः सकलदोष- ‘विलास – विशोधनैः ।अनुपरोध-सुबोध-निधानकं सहज-सिद्धमहं परिपूजये ॥

अक्षतॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् निर्व. स्वाहा

समयसार – सुपुष्प – सुमालया सहज- ‘कर्मक-रेणु-विशोधया ।परम-योग- बलेन वशीकृतं सहज-सिद्धमहं परिपूजये ॥

पुष्पॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंसनाय पुष्पं निर्व. स्वाहा

अकृतबोध – सुदिव्य-निवेद्यकैर्विहित-जातिजरामरणान्तकैः ।निरवधि- प्रचुरात्म- गुणालयं सहज – सिद्धमहं परिपूजये ॥

नैवेद्यॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने क्षुधारोगविनाशनाय नैवेद्यं निर्वपामीति

सहज-रत्नरुचि-प्रतिदीपकैः रुचि – विभूति-तमः प्रविनाशनैः ।निरवधि-स्वविकास-विकाशनं सहज-सिद्धमहं परिपूजये ॥

दीपॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशनाय दीपं निर्व॰

निज- गुणाक्षय-रूप- सुधूपनैः स्वगुणघातिमलप्रविनाशनैः ।विशद-बोध- सुदीर्घ- सुखात्मकं, सहज-सिद्धमहं परिपूजये ॥

धूपॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं निर्वपामीति स्वाहा

परम-भावफलावलि -सम्पदा सहजभाव-‘कुभावविशोधया ।निज-गुणस्फुरणात्म-निरञ्जनं सहज-सिद्धमहं परिपूजये ॥

फलॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षफलप्राप्तये फलं निर्वपामीति स्वाहा ।

शार्दूलविक्रीडितम्

नेत्रोन्मीलि-विकास-भाव- निवहैरत्यन्त- बोधाय वै,वार्गन्धाक्षत-पुष्प-दाम-चरुकैः सद्दीप-धूपैः फलैः ।यश्चिन्तामणि- शुद्ध-भाव- परम- ज्ञानात्मकैरर्चयेत्,“सिद्धं स्वादु – मगाध-बोधमचलं संचर्चयामो वयम् ॥ ।

अर्घ्यॐ ह्रीं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घपदप्राप्तयेऽर्घं निर्वपामीति स्वाहा ।

॥ जय जिनेन्द्र ॥