सिद्ध पूजा (द्रव्याष्टकम्)
संस्कृत · सिद्ध पूजा
साइट में पूजा खोलेंस्थापना
ऊर्ध्वाधरयुतं सबिन्दु-सपरं, ब्रह्मस्वरावेष्टितं,वर्गापूरित-दिग्गताम्बुजदलं, तत्सन्धि-तत्त्वान्वितम् ।अन्तःपत्रतटेष्वनाहतयुतं, ह्रींकारसंवेष्टितं,देवं ध्यायति यः स मुक्तिसुभगो, वैरीभकण्ठीरवः ॥
आह्वाननॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् अत्र अवतर अवतर संवौषट् ।
स्थापनॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् अत्र तिष्ठ तिष्ठ ठः ठः ।
सन्निधिकरणॐ ह्रीं श्रीसिद्धचक्राधिपते सिद्धपरमेष्ठिन् अत्र मम सन्निहितो भव भव वषट् ।
अष्टक
अनुष्टुप्
निरस्तकर्मसम्बन्धं सूक्ष्मं नित्यं निरामयम्वन्देऽह परमात्मानममूर्तमनुपद्रवम् ॥
सिद्धयन्त्रस्थापनम्
वसन्ततिलका
सिद्धौ निवासमनुगं परमात्मगम्यं, ‘हान्यादिभावरहितं भववीत-कायम् ।रेवापगावरसरोयमुनोद्भवानां, नीरैर्यजे कलशगैर्वर-सिद्धचक्रम् ॥
जलॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने जन्मजरामृत्युविनाशनाय जलं निर्वपामीति स्वाहा ।
आनन्दकन्दजनकं घनकर्ममुक्तं, सम्यक्त्वशर्मगरिमं जननार्तिवीतम् ।सौरभ्यवासित-भुवं हरि-चन्दनानां, गन्धैर्यजे परिमलैर्वर – सिद्धचक्रम् ॥
चंदनॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने भवातापविनाशनाय चन्दनं ।
सर्वावगाहनगुणं सुसमाधिनिष्ठं सिद्धं स्वरूपनिपुणं कमलं विशालम् ।सौगन्ध्यशालिवन-शालिवराक्षतानां, पुष्पैर्यज शशि-निभैर्वर-सिद्धचक्रम् ॥
अक्षतॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अक्षयपदप्राप्तये अक्षतान् ।
नित्यं स्वदेह- परिमाणमनादिसंज्ञं, द्रव्यानपेक्षममृतं मरणाद्यतीतम् ।मन्दारकुन्द-कमलादि-वनस्पतीनां, पुत्रैर्यजे शुभतमैर्वर-सिद्धचक्रम् ॥
पुष्पॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने कामबाणविध्वंसनाय पुष्पं ।
ऊर्ध्वस्वभाव-गमनं सुमनोव्यपेतं, ब्रह्मादि-बीज सहितं गगनावभासम् ।क्षीरान्न-‘प्राज्य-वटकै, रसपूर्णगर्भैर्नित्यं यजे चरुवरैर्वर-सिद्धचक्रम् ॥
नैवेद्यॐ ह्रीं णमो सिद्धाणं सिद्धपरमेष्ठिने क्षुधारोगविनाशाय नैवेद्यं ।
पश्यन्समस्त-भुवनं युगपन्नितान्तं, त्रैकाल्य वस्तु-विषये निविड- प्रदीपम् ।कर्पूर-वर्ति बहुभिः कनकावदातैर्दीपैर्यजे रुचिवरैर्वर-सिद्धचक्रम् ॥
दीपॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोहान्धकारविनाशाय दीपं ।
आतङ्क – शोक-भय-रोग-मद- प्रशान्तं, निर्द्वन्द्व-भाव-धरणं महिमा-निवेशम् ।सद्द्रव्य-गन्ध-घनसार – विमिश्रितानां, धूपैर्यजे परिमलैर्वर-सिद्धचक्रम् ॥
धूपॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अष्टकर्मदहनाय धूपं ।
सिद्धासुराधिपति-यक्ष-नरेन्द्र चक्रैर्थ्येयं शिवं सकल-भव्य-जनैः सुवन्द्यम् ।नारिङ्ग – पूग-कदलीफल-नारिकेलैः, सोऽहं यजे वरफलैर्वर-सिद्धचक्रम् ॥
फलॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने मोक्षपदप्राप्तये फलं ।
शार्दूलविक्रीडितम्
गन्धाढ्यं सुपयो- मधुव्रत-गणैः सङ्गं वरं चन्दनं,पुष्पौघं विमलं सदक्षत-चयं रम्यं चरुं दीपकम् ।धूपं गन्धयुतं ददामि विविधं श्रेष्ठं फलं लब्धये,सिद्धानां युगपत्क्रमाय विमलं सेनोत्तरं वाञ्छितम् ॥
अर्घ्यॐ ह्रीं णमो सिद्धाणं वसन्ततिलका श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने अनर्घपदप्राप्तयेऽर्घं
ज्ञानोपयोगविमलं विशदात्मरूपं, सूक्ष्म-स्वभाव-परमं यदनन्तवीर्यम्कर्मोंघ-कक्ष-दहनं सुख-सस्य-बीजं, वन्दे सदा निरुपमं वर-सिद्ध-चक्रम् ॥
अर्घ्यॐ ह्रीं णमो सिद्धाणं श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने महार्घं निर्वपामीति स्वाहा ।
शार्दूलविक्रीडितम्
त्रैलोक्येश्वर- वन्दनीय-चरणाः प्रापुः श्रियं शाश्वतीं,यानाराध्य निरुद्ध-चण्ड-मनसः सन्तोऽपि तीर्थङ्कराःसत्सम्यक्त्व – विबोध – वीर्य विशदाव्याबाधताद्यैर्गुणै-युक्तांस्तानिह तोष्टवीमि सततं सिद्धान् विशुद्धोदयान् ॥
पुष्पाञ्जलिं क्षिपेत्
जयमाला
विराग सनातन शान्त निरंश, निरामय निर्भय निर्मल-हंस ।सुधाम विबोध-निधान विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥1॥
विदूरित-संसृति-भाव निरङ्ग, समामृत-पूरित देव विसङ्ग ।अबन्ध कषाय-विहीन विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥2॥
निवारित-दुष्कृत-कर्म-विपाश, सदामल-केवल-केलिनिवास ।भवोदधि-पारग शान्त विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥3॥
अनन्त सुखामृतसागर धीर, कलङ्क – रजो – मल-भूरि-समीर ।विखण्डित-काम विराम विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥4॥
विकारविवर्जित तर्जितशोक, विबोध-सुनेत्र विलोकितलोक ।विहार विराव विरङ्ग विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥5॥
रजोमल-खेद-विमुक्त विगात्र, निरन्तर नित्य सुखामृतपात्र ।सुदर्शन-राजित नाथ विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥6॥
नरामर वन्दित निर्मलभाव, अनन्त-मुनीश्वर-पूज्य विहाव ।सदोदय विश्वमहेश विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥7॥
विदम्भ वितृष्ण विदोष विनिद्र, परात्पर शङ्कर सार वितन्द्र ।विकोप विरूप विशङ्क विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥8॥
जरा-मरणोज्झित वीतविहार, विचिन्तित निर्मल निरहङ्कार ।अचिन्त्य – चरित्र विदर्प विमोह, प्रसीद विशुद्ध सुसिद्ध-समूह ॥9॥
विवर्ण विगन्ध विमान विलोभ, विमाय विकाय विशब्द विशोभ ।अनाकुल केवल सार्व विमोह, प्रसीद विशुद्ध सुसिद्ध समूह ॥1॰ ॥
अर्घ्यॐ ह्रीं क्षायिकसम्यक्त्व – अनन्तज्ञान- अनन्तदर्शन- अनन्तवीर्य अगुरुलघुत्व- अवगाहनत्व- सूक्ष्मत्व-निराबाधत्वगुणसम्पन्न श्रीसिद्धचक्राधिपतये सिद्धपरमेष्ठिने महार्घं निर्वपामीति स्वाहा ।
मालिनी
असम-समयसारं चारु चैतन्य चिह्न,पर परिणति मुक्तं पद्मनन्दीन्द्र वन्द्यम् ।निखिल गुण- निकेतं सिद्धचक्रं विशुद्धं,स्मरति नमति यो वा स्तौति सोऽभ्येति मुक्तिम् ॥11॥
इत्याशीर्वादः
॥ जय जिनेन्द्र ॥